अमरकोशः


श्लोकः

विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः । आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विट्चर विट्चरः पुंलिङ्गः विषं विष्ठां चरति । अच् कृत् अकारान्तः
2 वर्कर वर्करः पुंलिङ्गः वर्कते । अरन् बाहुलकात् अकारान्तः
3 आच्छोदन आच्छोदनम् नपुंसकलिङ्गः आच्छिद्यन्तेऽत्र । ल्युट् कृत् अकारान्तः
4 मृगव्य मृगव्यम् नपुंसकलिङ्गः मृगा व्यय्यन्तेऽत्र । कृत् अकारान्तः
5 आखेट आखेटः पुंलिङ्गः आखिट्यतेऽत्र । घञ् कृत् अकारान्तः
6 मृगया मृगया स्त्रीलिङ्गः मृग्यन्तेऽत्र कृत् आकारान्तः