अमरकोशः


श्लोकः

स्त्री शर्करा शर्करिल: शार्करः शार्करावति । देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शर्करा शर्करा स्त्रीलिङ्गः शर्करा (अश्मप्राया मृत्) अस्त्यत्र । टाप् आकारान्तः
2 शर्करिल शर्करिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शर्करा (अश्मप्राया मृत्) अस्त्यत्र । इलच् तद्धितः अकारान्तः
3 शार्कर शार्करः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शर्करा (अश्मप्राया मृत्) अस्त्यत्र । अण् तद्धितः अकारान्तः
4 शर्करावत् शर्करावत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शर्करा (अश्मप्राया मृत्) अस्त्यत्र । मतुप् तद्धितः तकारान्तः
5 सिकता सिकता स्त्रीलिङ्गः टाप् आकारान्तः
6 सिकतिल सिकतिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इलच् तद्धितः अकारान्तः
7 सैकत सैकतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
8 सिकतावत् सिकतावत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मतुप् तद्धितः तकारान्तः