अमरकोशः


श्लोकः

पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् । वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पर्यन्तभू पर्यन्तभूः स्त्रीलिङ्गः पर्यन्ते भूः । तत्पुरुषः समासः ऊकारान्तः
2 परिसर परिसरः पुंलिङ्गः परितः सरन्त्यत्र । कृत् अकारान्तः
3 सेतु सेतुः पुंलिङ्गः सिनोति । तुन् उणादिः उकारान्तः
4 आलि आलिः स्त्रीलिङ्गः आ अलन्त्यम्भ: । इन् उणादिः इकारान्तः
5 वामलूर वामलूरः पुंलिङ्गः वामैर्वामं वा लूयते । तत्पुरुषः समासः अकारान्तः
6 नाकु नाकुः पुंलिङ्गः न अकति । बाहुलकात् उकारान्तः
7 वल्मीक वल्मीकम् पुंलिङ्गः, नपुंसकलिङ्गः वलन्ते प्राणिनोऽत्र । कीकन् उणादिः अकारान्तः