अमरकोशः


श्लोकः

त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् । द्विगुणाकृते तु सर्वं पूर्वं शम्बाकृतमपीह ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्रिगुणाकृत त्रिगुणाकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्रिगुणं कृतम् । तत्पुरुषः समासः अकारान्तः
2 तृतीयाकृत तृतीयाकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तृतीयं कृतम् । तत्पुरुषः समासः अकारान्तः
3 त्रिहल्य त्रिहल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्रिवारं हलेन कृष्टम् । यत् तद्धितः अकारान्तः
4 त्रिसीत्य त्रिसीत्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्रिवारं सीतया सम्मितम् यत् तद्धितः अकारान्तः
5 द्विगुणाकृत द्विगुणाकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
6 शम्बाकृत शम्बाकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शमस्यास्ति ‘ तत्पुरुषः समासः अकारान्तः