अमरकोशः


श्लोकः

धूर्वहे धुर्यधौरेयधुरीणाः सधुरन्धराः । उभावेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धूर्वह धूर्वहः पुंलिङ्गः वहतीति वहः । तत्पुरुषः समासः अकारान्तः
2 धुर्य धुर्यः पुंलिङ्गः यत् तद्धितः अकारान्तः
3 धौरेय धौरेयः पुंलिङ्गः ढक् तद्धितः अकारान्तः
4 धुरीण धुरीणः पुंलिङ्गः धुरं धारयति । तद्धितः अकारान्तः
5 सधुरन्धर सधुरन्धरः पुंलिङ्गः खच् कृत् अकारान्तः
6 एकधुरीण एकधुरीणः पुंलिङ्गः एका चासौ धूश्च । तद्धितः अकारान्तः
7 एकधुर् एकधुर् पुंलिङ्गः तत्पुरुषः समासः रेफान्तः
8 एकधुरावह एकधुरावहः पुंलिङ्गः एकधुराया वहः ॥ तत्पुरुषः समासः अकारान्तः