अमरकोशः


श्लोकः

दण्डाहतं कालशेयमरिष्टमपि गोरसः । तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दण्डाहत दण्डाहतम् नपुंसकलिङ्गः दण्डेन मथाहतं विलोडितम् । तत्पुरुषः समासः अकारान्तः
2 कालशेय कालशेयम् नपुंसकलिङ्गः कलश्यां मन्थपात्रे भवम् । ढञ् तद्धितः अकारान्तः
3 अरिष्ट अरिष्टम् नपुंसकलिङ्गः न रिष्टमक्षेमं यस्मात् । बहुव्रीहिः समासः अकारान्तः
4 गोरस गोरसः पुंलिङ्गः गोरसस्य दुग्धस्य विकारत्वादुपचारात् ॥ तत्पुरुषः समासः अकारान्तः
5 तक्र तक्रम् नपुंसकलिङ्गः तञ्चति । रक् उणादिः अकारान्तः
6 उदश्वित् उदश्वित्म् नपुंसकलिङ्गः उदकेन श्वयति वर्धते । क्विप् कृत् तकारान्तः
7 मथित मथितम् नपुंसकलिङ्गः मथ्यते स्म । क्त कृत् अकारान्तः