अमरकोशः


श्लोकः

त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा । उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृष: ॥ ५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आशितंगवीन आशितंगवीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आशिता भोजिता गावो यत्र । तद्धितः अकारान्तः
2 उक्षन् उक्षा पुंलिङ्गः उक्षति । कनि उणादिः नकारान्तः
3 भद्र भद्रः पुंलिङ्गः भन्दति (ते) । रन् उणादिः अकारान्तः
4 बलीवर्द बलीवर्दः पुंलिङ्गः बली चासौ ईवर्दश्च ॥ तत्पुरुषः समासः अकारान्तः
5 ऋषभ ऋषभः पुंलिङ्गः ऋषति अभच् उणादिः अकारान्तः
6 वृषभ वृषभः पुंलिङ्गः वर्षति । अभच् उणादिः अकारान्तः
7 वृष वृषः पुंलिङ्गः कृत् अकारान्तः