अमरकोशः


श्लोकः

मण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः । अशनाया बुभुक्षा क्षुद् ग्रासस्तु कवलः पुमान् ॥ ५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मस्तु मस्तुम् नपुंसकलिङ्गः मस्यते । तुन् उणादिः उकारान्तः
2 पीयूष पीयूषः पुंलिङ्गः पीयति । ऊषन् उणादिः अकारान्तः
3 अशनाया अशनाया स्त्रीलिङ्गः अशनस्येच्छा । क्यच् कृत् आकारान्तः
4 बुभुक्षा बुभुक्षा स्त्रीलिङ्गः भोक्तुमिच्छा । सन् सनादिः आकारान्तः
5 क्षुध् क्षुध् स्त्रीलिङ्गः क्षोधनम् । क्विप् कृत् धकारान्तः
6 ग्रास ग्रासः पुंलिङ्गः क्षोधनम् । घञ् कृत् अकारान्तः
7 कवल कवलः पुंलिङ्गः केन वलते । अच् कृत् अकारान्तः