अमरकोशः


श्लोकः

भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्रियाम् । मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भिस्सटा भिस्सटा स्त्रीलिङ्गः भिस्सां टीकते । कृत् आकारान्तः
2 दग्धिका दग्धिका स्त्रीलिङ्गः दह्यते स्म । क्त कृत् आकारान्तः
3 मण्ड मण्डः पुंलिङ्गः, नपुंसकलिङ्गः मण्डते, मण्ड्य ते, वा । अच् कृत् अकारान्तः
4 मासर मासरः पुंलिङ्गः मास्यते । अरन् बाहुलकात् अकारान्तः
5 आचाम आचामः पुंलिङ्गः आचम्यते । घञ् कृत् अकारान्तः
6 निस्राव निस्रावः पुंलिङ्गः निस्राव्यते । अच् कृत् अकारान्तः