अमरकोशः


श्लोकः

वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः । स्युर्मागधास्तु मगधा: वन्दिनः स्तुतिपाठकाः ॥ ९७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वैतालिक वैतालिकः पुंलिङ्गः विविधेन तालेन शब्देन चरन्ति । ठक् तद्धितः अकारान्तः
2 बोधकर बोधकरः पुंलिङ्गः बोधं करोति । कृत् अकारान्तः
3 चाक्रिक चाक्रिकः पुंलिङ्गः चक्रेण समूहेन चरन्ति । ठक् तद्धितः अकारान्तः
4 घाण्टिक घाण्टिकः पुंलिङ्गः घण्टया चरन्ति । ठक् तद्धितः अकारान्तः
5 मागध मागधः पुंलिङ्गः बहवो मिलिता ये राज्ञां स्तुत्यादि पठन्ति, तेषां द्वे । अण् तद्धितः अकारान्तः
6 मगध मगधः पुंलिङ्गः मगन्ध्यन्ति याचन्ते । यक् कृत् अकारान्तः
7 वन्दिन् वन्दी पुंलिङ्गः वदन्ते । णिनि कृत् नकारान्तः
8 स्तुतिपाठक स्तुतिपाठकः पुंलिङ्गः स्तुतेः पाठकाः ॥ तत्पुरुषः समासः अकारान्तः