अमरकोशः


श्लोकः

स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । भौरिकः कनकाध्यक्ष: रूप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्थायुक स्थायुकः पुंलिङ्गः स्थातुं शीलमस्य उकञ् कृत् अकारान्तः
2 गोप गोपः पुंलिङ्गः गोपायति । अच् कृत् अकारान्तः
3 भौरिक भौरिकः पुंलिङ्गः भूरिणि सुवर्णे नियुक्तः। ठक् तद्धितः अकारान्तः
4 कनकाध्यक्ष कनकाध्यक्षः पुंलिङ्गः कनकस्याध्यक्षः ॥ तत्पुरुषः समासः अकारान्तः
5 रूप्याध्यक्ष रूप्याध्यक्षः पुंलिङ्गः रूपस्याध्यक्षः ॥ तत्पुरुषः समासः अकारान्तः
6 नैष्किक नैष्किकः पुंलिङ्गः निष्के हेम्नि नियुक्तः । ठक् तद्धितः अकारान्तः