अमरकोशः


श्लोकः

पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः । शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥ ६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पद्ग पद्गः पुंलिङ्गः पभ्द्यां गच्छति । कृत् अकारान्तः
2 पदिक पदिकः पुंलिङ्गः पादाभ्यां चरति । ष्ट्रन् तद्धितः अकारान्तः
3 पादात पादातम् नपुंसकलिङ्गः पदातीनां समूहः । अण् तद्धितः अकारान्तः
4 पत्तिसंहति पत्तिसंहतिः स्त्रीलिङ्गः पत्तीनां संहतिः॥ तत्पुरुषः समासः इकारान्तः
5 शस्त्राजीव शस्त्राजीवः पुंलिङ्गः शस्त्रमाजीवति उपजीवति । अण् कृत् अकारान्तः
6 काण्डपृष्ठ काण्डपृष्ठः पुंलिङ्गः काण्डानि शास्त्राणि पृष्ठे यस्य । बहुव्रीहिः समासः अकारान्तः
7 आयुधीय आयुधीयः पुंलिङ्गः आयुधेन जीवति । तद्धितः अकारान्तः
8 आयुधिक आयुधिकः पुंलिङ्गः आयुधेन जीवति । ठञ् तद्धितः अकारान्तः