अमरकोशः


श्लोकः

याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः । असौ पुष्यरथश्चक्रयानं न समराय यत् ॥ ५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शताङ्ग शताङ्गः पुंलिङ्गः शतमङ्गान्यवयवा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 स्यन्दन स्यन्दनः पुंलिङ्गः युच् कृत् अकारान्तः
3 रथ रथः पुंलिङ्गः रमन्तेऽत्र । क्थन् उणादिः अकारान्तः
4 पुष्यरथ पुष्यरथः पुंलिङ्गः पुष्य इव रथः । बहुव्रीहिः समासः अकारान्तः