अमरकोशः


श्लोकः

त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते । कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आश्वीना आश्वीना पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अश्वेन एकाहेनातिक्रम्यते । खच् तद्धितः आकारान्तः
2 कश्य कश्यम् नपुंसकलिङ्गः अश्वादेस्ताडनी, ताडनं वा कशा । तद्धितः अकारान्तः
3 हेषा हेषा स्त्रीलिङ्गः हेषणम् । कृत् आकारान्तः
4 ह्रेषा ह्रेषा स्त्रीलिङ्गः हेषणम् । कृत् आकारान्तः