अमरकोशः


श्लोकः

गण्ड: कट: मदो दानं वमथुः करशीकरः । कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पमान् ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गण्ड गण्डः पुंलिङ्गः गण्डति । अच् कृत् अकारान्तः
2 कट कटः पुंलिङ्गः कटति । अच् कृत् अकारान्तः
3 मद मदः पुंलिङ्गः माद्यत्यनेन । अप् कृत् अकारान्तः
4 दान दानम् नपुंसकलिङ्गः द्यत्यनेन । ल्युट् कृत् अकारान्तः
5 वमथु वमथुः पुंलिङ्गः वम्यते । अथुच् कृत् उकारान्तः
6 करशीकर करशीकरः पुंलिङ्गः करस्य शीकरः ॥ तत्पुरुषः समासः अकारान्तः
7 कुम्भ कुम्भः पुंलिङ्गः कुं भुवमुम्भति । अण् कृत् अकारान्तः
8 विदु विदुः पुंलिङ्गः वेत्ति संज्ञामत्र घातेन । कु बाहुलकात् उकारान्तः