अमरकोशः


श्लोकः

साहसं तु दमो दण्डः साम सान्त्वमथो समौ । भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 साहस साहसम् नपुंसकलिङ्गः सहसि बले भवम् । अण् तद्धितः अकारान्तः
2 दम दमः पुंलिङ्गः दमनम् । घञ् कृत् अकारान्तः
3 दण्ड दण्डः पुंलिङ्गः उणादिः अकारान्तः
4 सामन् सामन्म् नपुंसकलिङ्गः कनिन् बाहुलकात् नकारान्तः
5 सान्त्व सान्त्वम् नपुंसकलिङ्गः सान्त्वनम् । अच् कृत् अकारान्तः
6 भेद भेदः पुंलिङ्गः घञ् कृत् अकारान्तः
7 उपजाप उपजापः पुंलिङ्गः उपांशु उपनम् घञ् कृत् अकारान्तः
8 उपधा उपधा स्त्रीलिङ्गः उपधीयते शुद्धिज्ञानमत्र । अङ् कृत् आकारान्तः