अमरकोशः


श्लोकः

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः । मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परासु परासुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परागता असवोऽस्मात् ॥ बहुव्रीहिः समासः उकारान्तः
2 प्राप्तपञ्चत्व प्राप्तपञ्चत्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परागता असवोऽस्मात् ॥ बहुव्रीहिः समासः अकारान्तः
3 परेत परेतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परं लोकमितः । समासः अकारान्तः
4 प्रेत प्रेतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकर्षेण इतः । तत्पुरुषः समासः अकारान्तः
5 संस्थित संस्थितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संतिष्ठते स्म । क्त कृत् अकारान्तः
6 मृत मृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः म्रियते स्म । क्त कृत् अकारान्तः
7 प्रमीत प्रमीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रमीयते स्म । क्त कृत् अकारान्तः
8 चिता चिता स्त्रीलिङ्गः चीयते स्म । क्त कृत् आकारान्तः
9 चित्या चित्या स्त्रीलिङ्गः क्यप् कृत् आकारान्तः
10 चिति चितिः स्त्रीलिङ्गः क्तिन् स्त्रीप्रत्ययः इकारान्तः