अमरकोशः


श्लोकः

पितृदानं निवाप: स्यात् श्राद्धं तत्कर्म शास्त्रतः । अन्वाहार्थं मासिकोंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पितृदान पितृदानम् नपुंसकलिङ्गः पितृभ्यो दानम् ॥ तत्पुरुषः समासः अकारान्तः
2 निवाप निवापः पुंलिङ्गः न्युप्यते, निवपनं वा घञ् कृत् अकारान्तः
3 श्राद्ध श्राद्धम् नपुंसकलिङ्गः श्रद्धात्रास्ति । तद्धितः अकारान्तः
4 अन्वाहार्य अन्वाहार्यम् नपुंसकलिङ्गः अनु आ ह्रियते । ण्यत् कृत् अकारान्तः
5 मासिक मासिकम् नपुंसकलिङ्गः मासे भवम् । ठञ् तद्धितः अकारान्तः
6 कुतप कुतपः पुंलिङ्गः, नपुंसकलिङ्गः कुत्सितं तपति । खच् कृत् अकारान्तः