अमरकोशः


श्लोकः

पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः । नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पर्याय पर्यायः पुंलिङ्गः पर्ययणम् । घञ् कृत् अकारान्तः
2 अतिपात अतिपातः पुंलिङ्गः अतिक्रम्य पतनम् । घञ् कृत् अकारान्तः
3 पर्यय पर्ययः पुंलिङ्गः पर्ययणम् । अच् कृत् अकारान्तः
4 उपात्यय उपात्ययः पुंलिङ्गः उपगतस्यातिक्रम्यायनम् । अच् कृत् अकारान्तः
5 नियम नियमः पुंलिङ्गः नियमनम् । अप् कृत् अकारान्तः
6 व्रत व्रतः पुंलिङ्गः, नपुंसकलिङ्गः व्रियते । अतच् उणादिः अकारान्तः
7 पुण्यक पुण्यकम् नपुंसकलिङ्गः कन् तद्धितः अकारान्तः