अमरकोशः


श्लोकः

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते । पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आवेशिक आवेशिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवेशेऽगृहे भवः । ठञ् तद्धितः अकारान्तः
2 आगन्तु आगन्तुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आगच्छति । तुन् उणादिः उकारान्तः
3 अतिथि अतिथिः पुंलिङ्गः इथिन् उणादिः इकारान्तः
4 पूजा पूजा स्त्रीलिङ्गः पूजनम् । अङ् कृत् आकारान्तः
5 नमस्या नमस्या स्त्रीलिङ्गः नमस्करणम् । क्यच् कृत् आकारान्तः
6 अपचिति अपचितिः स्त्रीलिङ्गः चायनम् । क्तिन् स्त्रीप्रत्ययः इकारान्तः
7 सपर्या सपर्या स्त्रीलिङ्गः यक् कृत् आकारान्तः
8 अर्चा अर्चा स्त्रीलिङ्गः कृत् आकारान्तः
9 अर्हणा अर्हणा स्त्रीलिङ्गः युच् कृत् आकारान्तः