अमरकोशः


श्लोकः

अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः । समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्रेता त्रेता स्त्रीलिङ्गः त्राणम् । तत्पुरुषः समासः आकारान्तः
2 प्रणीत प्रणीतः पुंलिङ्गः प्रकर्षं नीतः । बहुव्रीहिः समासः अकारान्तः
3 समूह्य समूह्यः पुंलिङ्गः समुह्यते, समूह्यते, वा । निपातनात् अकारान्तः
4 परिचाय्य परिचाय्यः पुंलिङ्गः परिचीयते ॥ निपातनात् अकारान्तः
5 उपचाय्य उपचाय्यः पुंलिङ्गः उपचीयते ॥ निपातनात् अकारान्तः