अमरकोशः


श्लोकः

त्यागो विहायितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 त्याग त्यागः पुंलिङ्गः त्यजनम् । घञ् कृत् अकारान्तः
2 विहायित विहायितम् नपुंसकलिङ्गः विहायनम् । क्त कृत् अकारान्तः
3 दान दानम् नपुंसकलिङ्गः दत्तम् । ल्युट् कृत् अकारान्तः
4 उत्सर्जन उत्सर्जनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 विसर्जन विसर्जनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 विश्राणन विश्राणनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 वितरण वितरणम् नपुंसकलिङ्गः वितरतेश्च ॥ ल्युट् कृत् अकारान्तः
8 स्पर्शन स्पर्शनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
9 प्रतिपादन प्रतिपादनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः