अमरकोशः


श्लोकः

परम्पराकं शमनं प्रोक्षणं च वधार्थकम् । वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परम्पराक परम्पराकम् नपुंसकलिङ्गः परम्पराया आकम् । घञ् कृत् अकारान्तः
2 शमन शमनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 प्रोक्षण प्रोक्षणम् नपुंसकलिङ्गः प्रकृष्टमुक्षणम् । ल्युट् कृत् अकारान्तः
4 प्रमीत प्रमीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रमीयते स्म । क्त कृत् अकारान्तः
5 उपसम्पन्न उपसम्पन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपसंपद्यते स्म । क्त कृत् अकारान्तः
6 प्रोक्षित प्रोक्षितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रोक्ष्यते स्म । क्त कृत् अकारान्तः