अमरकोशः


श्लोकः

अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनूचान अनूचानः पुंलिङ्गः अन्ववोचत् । कानच् कृत् अकारान्तः
2 समावृत्त समावृत्तः पुंलिङ्गः समावर्तते स्म । क्त कृत् अकारान्तः
3 सुत्वन् सुत्वन् पुंलिङ्गः सुतवान् । ड्वनिप् कृत् नकारान्तः