अमरकोशः


श्लोकः

वेदिः परिष्कृता भूमिः समे स्थण्डिलचत्वरे । चषालो यूपकटकः कुम्बा सुगहना वृति: ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वेदि वेदिः स्त्रीलिङ्गः विद्यते शोधनेन ज्ञायते, विचार्यते, प्राप्यते, वा । इन् उणादिः इकारान्तः
2 स्थण्डिल स्थण्डिलम् नपुंसकलिङ्गः स्थलन्त्यस्मिन् । इलच् उणादिः अकारान्तः
3 चत्वर चत्वरम् नपुंसकलिङ्गः चतन्त्यस्मिन् । ष्वरच् उणादिः अकारान्तः
4 चषाल चषालः पुंलिङ्गः चषति । आलच् उणादिः अकारान्तः
5 यूपकटक यूपकटकः पुंलिङ्गः यूपस्याग्रे कृतकटकाकारः ॥ तत्पुरुषः समासः अकारान्तः
6 कुम्बा कुम्बा स्त्रीलिङ्गः कुम्ब्यते अनया वा । अङ् कृत् आकारान्तः