अमरकोशः


श्लोकः

प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः । सभासदः सभास्तारा: सभ्या: सामाजिकाश्च ते ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्राग्वंश प्राग्वंशः पुंलिङ्गः प्राङ् वंशो गोत्रं स्थूणा वात्र ॥ क्विन् कृत् अकारान्तः
2 सदस्य सदस्यः पुंलिङ्गः सदसि साधवः । यत् तद्धितः अकारान्तः
3 विधिदर्शिन् विधिदर्शिन् पुंलिङ्गः विधिं द्रष्टुं शीलं येषां ते । णिनि कृत् नकारान्तः
4 सभासद् सभासद् पुंलिङ्गः सभायां सीदन्ति । क्विप् कृत् दकारान्तः
5 सभास्तार सभास्तारः पुंलिङ्गः सभां स्तृणन्ति । अण् कृत् अकारान्तः
6 सभ्य सभ्यः पुंलिङ्गः सभायां साधवः । तद्धितः अकारान्तः
7 सामाजिक सामाजिकः पुंलिङ्गः समाजं समवयन्ति । ठक् तद्धितः अकारान्तः