अमरकोशः


श्लोकः

पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः । एते पञ्च महायज्ञा ब्रह्मयज्ञादिनामका: ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पाठ पाठः पुंलिङ्गः पठनम् । घञ् कृत् अकारान्तः
2 होम होमः पुंलिङ्गः हवनम् । मन् उणादिः अकारान्तः
3 सपर्या सपर्या स्त्रीलिङ्गः सपर्यणम् । यक् कृत् आकारान्तः
4 तर्पण तर्पणम् नपुंसकलिङ्गः तृप्यति । ल्युट् कृत् अकारान्तः
5 बलि बलिः पुंलिङ्गः वलनम् । इन् उणादिः इकारान्तः
6 महायज्ञ महायज्ञः पुंलिङ्गः महान्तश्च ते यज्ञाश्च । तत्पुरुषः समासः अकारान्तः
7 ब्रह्मयज्ञ ब्रह्मयज्ञः पुंलिङ्गः ब्रह्मयज्ञ आदिर्येषां तानि ब्रह्मयज्ञादीनि नामानि येषां ते । बहुव्रीहिः समासः अकारान्तः