अमरकोशः


श्लोकः

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः । क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रुज् रुज् स्त्रीलिङ्गः रुजति देहम् । क्विप् कृत् जकारान्तः
2 रुजा रुजा स्त्रीलिङ्गः कृत् आकारान्तः
3 उपताप उपतापः पुंलिङ्गः उपतापयति । अच् कृत् अकारान्तः
4 रोग रोगः पुंलिङ्गः रोजनं वा । घञ् कृत् अकारान्तः
5 व्याधि व्याधिः पुंलिङ्गः विविधा आधयोऽस्मात् । कि कृत् इकारान्तः
6 गद गदः पुंलिङ्गः गदति । अच् कृत् अकारान्तः
7 आमय आमयः पुंलिङ्गः आमं यान्त्यनेन घञ् कृत् अकारान्तः
8 क्षय क्षयः पुंलिङ्गः क्षयति देयम् । अच् कृत् अकारान्तः
9 शोष शोषः पुंलिङ्गः शोषयति । अच् कृत् अकारान्तः
10 यक्ष्मन् यक्ष्मन् पुंलिङ्गः यक्षयते, यक्ष्यते वा । मनिन् उणादिः नकारान्तः
11 प्रतिश्याय प्रतिश्यायः पुंलिङ्गः प्रतिक्षणं श्यायते । कृत् अकारान्तः
12 पीनस पीनसः पुंलिङ्गः पीनं स्यति, सायति, वा । कृत् अकारान्तः