अमरकोशः


श्लोकः

दर्द्रुणो दर्द्रुरोगी स्यादर्शोरोगयुतोऽर्शसः । वातकी वातरोगी स्यात्सातिसारोऽतिसारकी ॥ ५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दर्द्रुण दर्द्रुणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दरिद्राति । उणादिः अकारान्तः
2 दर्द्रुरोगिन् दर्द्रुरोगिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दर्द्रूश्चासौ रोगश्च । तत्पुरुषः समासः नकारान्तः
3 अर्सोरोगयुत अर्सोरोगयुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्शोरोगेण युतः ॥ तत्पुरुषः समासः अकारान्तः
4 अर्शस अर्शसः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्शांसि सन्त्यस्य । अच् तद्धितः अकारान्तः
5 वातकिन् वातकी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वातोऽतिशयितोऽस्य । इनि तद्धितः नकारान्तः
6 वातरोगिन् वातरोगी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वातरोगोऽस्यास्ति । इनि तद्धितः नकारान्तः
7 सातिसार सातिसारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सहातिसारेण वर्तते ॥ तत्पुरुषः समासः अकारान्तः
8 अतिसारकिन् अतिसारकी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिसारोऽस्यास्ति । इनि तद्धितः नकारान्तः