अमरकोशः


श्लोकः

शिशत्वं शैशवं बाल्यं तारुण्यं यौवनं समे । स्यात्स्थाविरं तु वृद्धत्वं वृद्धसङ्घेऽपि वार्धकम् ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिशुत्व शिशुत्वम् नपुंसकलिङ्गः शिशोर्भावः । त्व तद्धितः अकारान्तः
2 शैशव शैशवम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
3 बाल्य बाल्यम् नपुंसकलिङ्गः बालस्य भावः । ष्यञ् तद्धितः अकारान्तः
4 तारुण्य तारुण्यम् नपुंसकलिङ्गः तरुणस्य भावः । ष्यञ् तद्धितः अकारान्तः
5 यौवन यौवनम् नपुंसकलिङ्गः यूनो भावः । अण् तद्धितः अकारान्तः
6 स्थाविर स्थाविरम् नपुंसकलिङ्गः स्थविरस्य भावः । अण् तद्धितः अकारान्तः
7 वृद्धत्व वृद्धत्वम् नपुंसकलिङ्गः वृद्धस्य भाव । त्व अण् अकारान्तः
8 वृद्धसङ्घ वृद्धसङ्घम् नपुंसकलिङ्गः वृद्धसंघम् = वृद्धानां संघः॥ तत्पुरुषः समासः अकारान्तः
9 वार्धक वार्धकम् नपुंसकलिङ्गः वृद्धानां समूहः । वुञ् तद्धितः अकारान्तः