अमरकोशः


श्लोकः

अवटीटोऽवनाटश्चावभ्रटो नतनासिके । केशवः केशिक: केशी बलिनो बलिभः समौ ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवटीट अवटीटः पुंलिङ्गः अवनमनं नासिकायाः । टीटच् तद्धितः अकारान्तः
2 अवनाट अवनाटः पुंलिङ्गः अवनमनं नासिकायाः । नाटच् तद्धितः अकारान्तः
3 अवभ्रट अवभ्रटः पुंलिङ्गः अवनमनं नासिकायाः । भ्रटच् तद्धितः अकारान्तः
4 केशव केशवः पुंलिङ्गः प्रशस्ताः केशा यस्य । तद्धितः अकारान्तः
5 केशिक केशिकः पुंलिङ्गः प्रशस्ताः केशा यस्य । ठन् तद्धितः अकारान्तः
6 केशिन् केशी पुंलिङ्गः प्रशस्ताः केशा यस्य । इनि तद्धितः नकारान्तः
7 बलिन बलिनः पुंलिङ्गः बलिस्त्वक्संकोचोऽस्यास्ति । तद्धितः अकारान्तः
8 बलिभ बलिभः पुंलिङ्गः तद्धितः अकारान्तः