अमरकोशः


श्लोकः

अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः । कौलटेय: कौलटेरः भिक्षुकी तु सती यदि ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बान्धकिनेय बान्धकिनेयः पुंलिङ्गः बन्धक्या अपत्यम् । ढक् तद्धितः अकारान्तः
2 बन्धुल बन्धुलः पुंलिङ्गः बन्धून् लाति ॥ कृत् अकारान्तः
3 असतीसुत असतीसुतः पुंलिङ्गः असत्याः सुतः ॥ तत्पुरुषः समासः अकारान्तः
4 कौलटेय कौलटेयः पुंलिङ्गः कुलटाया अपत्यम् । ढक् तद्धितः अकारान्तः
5 कौलटेर कौलटेरः पुंलिङ्गः कुलटाया अपत्यम् । ढ्रक् तद्धितः अकारान्तः