अमरकोशः


श्लोकः

पैतृष्वसेय: स्यात् पैतृष्वस्त्रीयश्च पितृष्वसुः । सुतः मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पैतृष्वसेय पैतृष्वसेयः पुंलिङ्गः पितृष्वसुरपत्यम् । ढक् तद्धितः अकारान्तः
2 पैतृष्वस्त्रीय पैतृष्वस्त्रीयः पुंलिङ्गः पितृष्वसुरपत्यम् । छण् तद्धितः अकारान्तः
3 मातृष्वसेय मातृष्वसेयः पुंलिङ्गः मातृष्वसुरपत्यम् । ढक् तद्धितः अकारान्तः
4 मातृष्वस्रीय मातृष्वस्रीयः पुंलिङ्गः मातृष्वसुरपत्यम् । छण् तद्धितः अकारान्तः
5 वैमात्रेय वैमात्रेयः पुंलिङ्गः विरुद्धा माता । तत्पुरुषः समासः अकारान्तः
6 विमातृज विमातृजः पुंलिङ्गः विमातुर्जातः । कृत् अकारान्तः