अमरकोशः


श्लोकः

शूद्री शूद्रस्य भार्या स्यात् शूद्रा तज्जातिरेव च । आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शूद्री शूद्री स्त्रीलिङ्गः शूद्रस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
2 शूद्रा शूद्रा स्त्रीलिङ्गः शूद्रस्य स्त्री । टाप् स्त्रीप्रत्ययः आकारान्तः
3 आभीरी आभीरी स्त्रीलिङ्गः आभीरस्य स्त्री, तज्जातीया वा । ङीष् स्त्रीप्रत्ययः ईकारान्तः
4 महाशूद्री महाशूद्री स्त्रीलिङ्गः या तु महता शूद्रा । ङीष् स्त्रीप्रत्ययः ईकारान्तः