अमरकोशः


श्लोकः

स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् । अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्नान स्नानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 चर्चा चर्चा स्त्रीलिङ्गः चर्चनम् । अङ् कृत् आकारान्तः
3 चार्चिक्य चार्चिक्यम् नपुंसकलिङ्गः ष्यञ् तद्धितः अकारान्तः
4 स्थासक स्थासकः पुंलिङ्गः तिष्ठति । बाहुलकात् अकारान्तः
5 प्रबोधन प्रबोधनम् नपुंसकलिङ्गः प्रबुद्धिः । ल्युट् कृत् अकारान्तः
6 अनुबोध अनुबोधः पुंलिङ्गः घञ् कृत् अकारान्तः
7 पत्रलेखा पत्रलेखा स्त्रीलिङ्गः पत्राकारा लेखा । तत्पुरुषः समासः आकारान्तः
8 पत्राङ्गुलि पत्राङ्गुलिः स्त्रीलिङ्गः पत्रार्थोऽङ्गुलिरङ्गुलिव्यापारः ॥ तत्पुरुषः समासः इकारान्तः