अमरकोशः


श्लोकः

आलि: सखी वयस्याच पतिवत्नी सभर्तृका । वृद्धा पलिक्नी प्रज्ञा तु प्राज्ञी प्राज्ञा तु धीमती ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आलि आलिः स्त्रीलिङ्गः आलयति । णिच् कृत् इकारान्तः
2 सखी सखी स्त्रीलिङ्गः समानं ख्यायते जनैः । ख्या उणादिः ईकारान्तः
3 वयस्या वयस्या स्त्रीलिङ्गः वयसा तुल्या । यत् तद्धितः आकारान्तः
4 पतिवत्नी पतिवत्नी स्त्रीलिङ्गः पतिरस्त्यस्याः । मतुप् तद्धितः ईकारान्तः
5 सभर्तृका सभर्तृका स्त्रीलिङ्गः सह भर्त्रास्ति । कप् तद्धितः आकारान्तः
6 वृद्धा वृद्धा स्त्रीलिङ्गः वर्धते स्म । क्त कृत् आकारान्तः
7 पलिक्नी पलिक्नी स्त्रीलिङ्गः पलितमस्त्यस्याः । अच् तद्धितः ईकारान्तः
8 प्रज्ञा प्राज्ञी स्त्रीलिङ्गः प्रजानाति । कृत् आकारान्तः
9 प्राज्ञी प्रज्ञा स्त्रीलिङ्गः प्रजानाति । अण् तद्धितः ईकारान्तः
10 प्राज्ञा प्राज्ञा स्त्रीलिङ्गः प्रज्ञास्त्यस्याः । कृत् आकारान्तः
11 धीमती धीमती स्त्रीलिङ्गः धीरस्त्यस्याः । मतुप् तद्धितः ईकारान्तः