अमरकोशः


श्लोकः

अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमंशुकम् । स्यात्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चण्डातक चण्डातकः पुंलिङ्गः, नपुंसकलिङ्गः चण्डां कोपनां वरस्त्रियमतति । क्वुन् उणादिः अकारान्तः
2 आप्रपदीन आप्रपदीनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आप्रपदं प्राप्नोति । तद्धितः अकारान्तः