अमरकोशः


श्लोकः

अर्धहारो माणवक एकावल्येकयष्टिका । सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्धहार अर्धहारः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
2 माणवक माणवकः पुंलिङ्गः माणवो बालः । कन् तद्धितः अकारान्तः
3 एकावली एकावली स्त्रीलिङ्गः एका चासावावली च ॥ तत्पुरुषः समासः ईकारान्तः
4 नक्षत्रमाला नक्षत्रमाला स्त्रीलिङ्गः नक्षत्राणां मालेव ॥ तत्पुरुषः समासः आकारान्तः