अमरकोशः


श्लोकः

रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रोहिन् रोही पुंलिङ्गः अवश्यं रोहति । णिनि कृत् नकारान्तः
2 रोहितक रोहितकः पुंलिङ्गः रोहितो वर्णोऽस्यास्ति । कन् तद्धितः अकारान्तः
3 प्लीहशत्रु प्लीहशत्रुः पुंलिङ्गः प्लीहः शत्रुः ॥ बहुव्रीहिः समासः उकारान्तः
4 दाडिमपुष्पक दाडिमपुष्पकः पुंलिङ्गः दाडिमस्य पुष्पमिव पुष्पमस्य ॥ अकारान्तः
5 गायत्री गायत्री पुंलिङ्गः, स्त्रीलिङ्गः गायन्तं त्रायते । तत्पुरुषः समासः ईकारान्तः
6 बालतनय बालतनयः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
7 खदिर खदिरः पुंलिङ्गः खदति । किरच् उणादिः अकारान्तः
8 दन्तधावन दन्तधावनः पुंलिङ्गः दन्तान् धावति । तत्पुरुषः समासः अकारान्तः