अमरकोशः


श्लोकः

विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला । बोधिद्रुमश्चलदलः पिप्पल: कुञ्जराशन: ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बोधिद्रुम बोधिद्रुमः पुंलिङ्गः बुध्यते । इन् उणादिः अकारान्तः
2 चलदल चलदलः पुंलिङ्गः चलं दलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 पिप्पल पिप्पलः पुंलिङ्गः पिप्पलं जलमस्यास्ति । अच् तद्धितः अकारान्तः
4 कुञ्जराशन कुञ्जराशनः पुंलिङ्गः कुञ्जरेणाश्यते । ल्युट् कृत् अकारान्तः