अमरकोशः


श्लोकः

स्यादृक्षगन्धा छगलात्र्यावेगी वृद्धदारकः । जुङ्गो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥ १३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋक्षगन्धा ऋक्षगन्धा स्त्रीलिङ्गः ऋक्षस्येव गन्धोऽस्याः । बहुव्रीहिः समासः आकारान्तः
2 छगलान्त्री छगलान्त्री स्त्रीलिङ्गः छगलस्येवान्त्रमस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
3 आवेगी आवेगी स्त्रीलिङ्गः आवेगोऽस्त्यस्याः । अच् तद्धितः ईकारान्तः
4 वृद्धदारक वृद्धदारकः पुंलिङ्गः वृद्धो दारकोऽस्मात् । बहुव्रीहिः समासः अकारान्तः
5 जुङ्ग जुङ्गः पुंलिङ्गः जुङ्गति । अच् कृत् अकारान्तः
6 ब्राह्मी ब्राह्मी स्त्रीलिङ्गः ब्रह्मण इयम् । अण् तद्धितः ईकारान्तः
7 मत्स्याक्षी मत्स्याक्षी स्त्रीलिङ्गः मत्स्याक्षीव पुष्पमस्याः । बहुव्रीहिः समासः ईकारान्तः
8 वयस्था वयस्था स्त्रीलिङ्गः वयसि तिष्ठत्यनया । कृत् आकारान्तः
9 सोमवल्लरी सोमवल्लरी स्त्रीलिङ्गः सोमस्य वल्लरी ॥ तत्पुरुषः समासः ईकारान्तः