अमरकोशः


श्लोकः

तपस्विनी जटामांसी जटिला लोमशा मिसी । त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥ १३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तपस्विनी तपस्विनी स्त्रीलिङ्गः तपोऽस्त्यस्याः । विनि तद्धितः ईकारान्तः
2 जटा जटा स्त्रीलिङ्गः जटा = जटाऽस्त्यस्याः । अच् तद्धितः आकारान्तः
3 मांसी मांसी स्त्रीलिङ्गः मांसी = मन्यते । उणादिः ईकारान्तः
4 जटिला जटिला स्त्रीलिङ्गः जटाऽस्त्यस्याः । इलच् तद्धितः आकारान्तः
5 लोमशा लोमशा स्त्रीलिङ्गः लोमानि सन्त्यस्याः । तद्धितः आकारान्तः
6 मिसी मिसी स्त्रीलिङ्गः मस्यति । इन् उणादिः ईकारान्तः
7 त्वक्पत्र त्वक्पत्रम् नपुंसकलिङ्गः त्वगिव पत्रमस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 उत्कट उत्कटम् नपुंसकलिङ्गः अन्यत उत्कटगन्धित्वात् कटच् तद्धितः अकारान्तः
9 भृङ्ग भृङ्गम् नपुंसकलिङ्गः बिभर्ति । गन् उणादिः अकारान्तः
10 त्वच त्वचम् नपुंसकलिङ्गः प्रशस्ता त्वगस्यास्ति । अच् तद्धितः अकारान्तः
11 चोच चोचम् नपुंसकलिङ्गः प्रशस्तं चोचमस्यास्ति । अच् तद्धितः अकारान्तः
12 वराङ्गक वराङ्गकम् नपुंसकलिङ्गः वरमङ्गमस्य । बहुव्रीहिः समासः अकारान्तः