अमरकोशः


श्लोकः

व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् । शुषिरा विद्रुमलता कपोताघ्रिर्नटी नली ॥ १२९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्याडायुध व्याडायुधम् नपुंसकलिङ्गः व्याडस्य व्याघ्रस्यायुधमिव ॥ बहुव्रीहिः समासः अकारान्तः
2 व्याघ्रनख व्याघ्रनखम् नपुंसकलिङ्गः व्याघ्रस्य नखमिव । बहुव्रीहिः समासः अकारान्तः
3 करज करजम् नपुंसकलिङ्गः करजं नखम् । तत्पुरुषः समासः अकारान्तः
4 चक्रकारक चक्रकारकम् नपुंसकलिङ्गः चक्रस्य कारकम् ॥ तत्पुरुषः समासः अकारान्तः
5 शुषिरा शुषिरा स्त्रीलिङ्गः शुषिरस्त्यस्याः । तद्धितः आकारान्तः
6 विद्रुमलता विद्रुमलता स्त्रीलिङ्गः विद्रुमस्येव लता ॥ तत्पुरुषः समासः आकारान्तः
7 कपोताङ्घ्रि कपोताङ्घ्रिः स्त्रीलिङ्गः कपोतस्याङ्घ्रिरिव ॥ तत्पुरुषः समासः इकारान्तः
8 नटी नटी स्त्रीलिङ्गः नटति । अच् कृत् ईकारान्तः
9 नली नली स्त्रीलिङ्गः नलति । अच् कृत् ईकारान्तः