अमरकोशः


श्लोकः

शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे । शतमूली बहुसुताभीरुरिन्दीवरी वरी ॥ १०० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शृङ्गी शृङ्गी स्त्रीलिङ्गः शृणाति । गन् उणादिः ईकारान्तः
2 महौषध महौषधम् नपुंसकलिङ्गः महच्च तदौषधं च । तत्पुरुषः समासः अकारान्तः
3 क्षीरावी क्षीरावी स्त्रीलिङ्गः क्षीरमवति । तत्पुरुषः समासः ईकारान्तः
4 दुग्धिका दुग्धिका स्त्रीलिङ्गः दुग्धमस्त्यस्याः । ठन् तद्धितः आकारान्तः
5 शतमूली शतमूली स्त्रीलिङ्गः शतं मूलान्यस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
6 बहुसुता बहुसुता स्त्रीलिङ्गः बहवः सुता यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
7 अभीरु अभीरुः स्त्रीलिङ्गः न भीरुः । तत्पुरुषः समासः उकारान्तः
8 इन्दीवरी इन्दीवरी स्त्रीलिङ्गः नीलोत्पलाकारपुष्पत्वाद् इन्दीवरमस्त्यस्याः । अच् तद्धितः ईकारान्तः
9 वरी वरी स्त्रीलिङ्गः वृणोति अच् कृत् ईकारान्तः