अमरकोशः


श्लोकः

तस्यां कटंभरा राजबला भद्रबलेति च । जनी जतूका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कटम्भरा कटम्भरा स्त्रीलिङ्गः कटं बिभर्ति । खच् कृत् आकारान्तः
2 राजबला राजबला स्त्रीलिङ्गः बलानां बलप्रदानां राजेव । तत्पुरुषः समासः आकारान्तः
3 भद्रबला भद्रबला स्त्रीलिङ्गः भद्रं बलमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
4 जनी जनी स्त्रीलिङ्गः जायते आरोग्यमनया । इण् उणादिः ईकारान्तः
5 जतूका जतूका स्त्रीलिङ्गः जायते । ऊक उणादिः आकारान्तः
6 रजनी रजनी स्त्रीलिङ्गः रज्यतेऽनया । ल्युट् कृत् ईकारान्तः
7 जतुकृत् जतुकृत् स्त्रीलिङ्गः जतु करोति क्विप् कृत् तकारान्तः
8 चक्रवर्तिनी चक्रवर्तिनी स्त्रीलिङ्गः चक्रं चक्रमिव वा वर्तितुं शीलमस्याः । णिनि कृत् ईकारान्तः