अमरकोशः


श्लोकः

सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि । नमस्कारी गण्डकाली समङ्गा खदिरेत्यपि ॥ १४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सहस्रवेधिन् सहस्रवेधी पुंलिङ्गः सहस्रं शतं वा वेधितुं शीलमस्य । णिनि कृत् नकारान्तः
2 चुक्र चुक्रः पुंलिङ्गः चुक्क्यत्यनेन । रन् उणादिः अकारान्तः
3 अम्लवेतस अम्लवेतसः पुंलिङ्गः अम्लश्चासौ वेतसश्च । तत्पुरुषः समासः अकारान्तः
4 शतवेधिन् शतवेधी पुंलिङ्गः णिनि कृत् नकारान्तः
5 नमस्कारी नमस्कारी स्त्रीलिङ्गः नमस्करणशीला । णिनि कृत् ईकारान्तः
6 गण्डकाली गण्डकाली स्त्रीलिङ्गः गण्डेषु ग्रन्थिषु काली ॥ तत्पुरुषः समासः ईकारान्तः
7 समङ्गा समङ्गा स्त्रीलिङ्गः समङ्गति । अच् कृत् आकारान्तः
8 खदिरा खदिरा स्त्रीलिङ्गः खदति । किरच् उणादिः आकारान्तः