अमरकोशः


श्लोकः

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः । विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्युमणि द्युमणिः पुंलिङ्गः दिवो मणिरिव । तत्पुरुषः समासः इकारान्तः
2 तरणि तरणिः पुंलिङ्गः तरन्त्यनेन संसारम् । अनि उणादिः इकारान्तः
3 मित्र मित्रः पुंलिङ्गः मेद्यति । क्त्र उणादिः अकारान्तः
4 चित्रभानु चित्रभानुः पुंलिङ्गः चित्रा भानवोऽस्य । बहुव्रीहिः समासः उकारान्तः
5 विरोचन विरोचनः पुंलिङ्गः विरोचते । युच् कृत् अकारान्तः
6 विभावसु विभावसुः पुंलिङ्गः विभैव वसु यस्य । बहुव्रीहिः समासः उकारान्तः
7 ग्रहपति ग्रहपतिः पुंलिङ्गः ग्रहाणां पतिः । तत्पुरुषः समासः इकारान्तः
8 त्विषांपति त्विषांपतिः पुंलिङ्गः त्विषां पतिः । तत्पुरुषः समासः इकारान्तः
9 अहर्पति अहर्पतिः पुंलिङ्गः अह्नः पति: । तत्पुरुषः समासः इकारान्तः