अमरकोशः


श्लोकः

स्युः प्रभारुग्ग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः । रोचि: शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रभा प्रभा स्त्रीलिङ्गः प्रभाति । कृत् आकारान्तः
2 रुच् रुक्/रुग् स्त्रीलिङ्गः रोचते । क्विप् कृत् चकारान्तः
3 रुचि रुचिः स्त्रीलिङ्गः रोचते । इन् उणादिः इकारान्तः
4 त्विष् त्विट्/त्विड् स्त्रीलिङ्गः त्वेषति । क्विप् कृत् षकारान्तः
5 भा भाः स्त्रीलिङ्गः कृत् आकारान्तः
6 भास् भाः स्त्रीलिङ्गः क्विप् कृत् सकारान्तः
7 छवि छविः स्त्रीलिङ्गः छयति छिनति वा क्विन् उणादिः इकारान्तः
8 द्युति द्युतिः स्त्रीलिङ्गः द्योततेऽनया । इन् उणादिः इकारान्तः
9 दीप्ति दीप्तिः स्त्रीलिङ्गः दीप्यतेऽनया । क्तिन् कृत् इकारान्तः
10 रोचिस् रोचिः नपुंसकलिङ्गः रोचतेऽनेन । इसि उणादिः सकारान्तः
11 शोचिस् शोचिः नपुंसकलिङ्गः शुच्यति पूतीभवत्यनेन । इसि उणादिः सकारान्तः
12 प्रकाश प्रकाशः पुंलिङ्गः घञ् कृत् अकारान्तः
13 द्योत द्योतः पुंलिङ्गः घञ् कृत् अकारान्तः
14 आतप आतपः पुंलिङ्गः अच् कृत् अकारान्तः