अमरकोशः


श्लोकः

कालिन्दी सूर्यतनया यमुना शमनस्वसा । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कालिन्दी कालिन्दी स्त्रीलिङ्गः कलिन्दस्येयम् । अण् तद्धितः ईकारान्तः
2 सूर्यतनया सूर्यतनया स्त्रीलिङ्गः सूर्यस्य तनया ॥ तत्पुरुषः समासः समासः आकारान्तः
3 यमुना यमुना स्त्रीलिङ्गः यच्छति । उनन् उणादिः आकारान्तः
4 शमनस्वसृ शमनस्वसा स्त्रीलिङ्गः शमनस्य स्वसा ॥ तत्पुरुषः समासः समासः ऋकारान्तः
5 रेवा रेवा स्त्रीलिङ्गः रेवते । अच् कृत् आकारान्तः
6 नर्मदा नर्मदा स्त्रीलिङ्गः नर्म ददाति द्यति वा । कः कृत् आकारान्तः
7 सोमोद्भवा सोमोद्भवा स्त्रीलिङ्गः सोमात्सोमवंशजात् पुरूरवस उद्भवति । अप् कृत् आकारान्तः
8 मेकलकन्यका मेकलकन्यका स्त्रीलिङ्गः मेकलस्य ऋषेरद्रेर्वा कन्यका ॥ तत्पुरुषः समासः समासः आकारान्तः