अमरकोशः


श्लोकः

तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी । स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तरङ्गिणी तरङ्गिणी स्त्रीलिङ्गः तरङ्गाः सन्त्यस्याम् । इनिः तद्धितः ईकारान्तः
2 शैवलिनी शैवलिनी स्त्रीलिङ्गः शैवलमस्त्यस्याम् । इनि तद्धितः ईकारान्तः
3 तटिनी तटिनी स्त्रीलिङ्गः तटमस्त्यस्या: । इनि तद्धितः ईकारान्तः
4 ह्रादिनी ह्रादिनी स्त्रीलिङ्गः ह्रदाः सन्त्यस्याम् । इनि तद्धितः ईकारान्तः
5 धुनी धुनी स्त्रीलिङ्गः धुनोति वेतसादीन् । क्विप् कृत् ईकारान्तः
6 स्रोतस्वती स्रोतस्वती स्त्रीलिङ्गः स्रोतांसि सन्त्यस्याम् । मतुप् तद्धितः ईकारान्तः
7 द्वीपवती द्वीपवती स्त्रीलिङ्गः द्वीपमस्त्यस्याम् । मतुप् तद्धितः ईकारान्तः
8 स्रवन्ती स्रवन्ती स्त्रीलिङ्गः स्रवति । शतृ धातुवृत्तिः ईकारान्तः
9 निम्नगा निम्नगा स्त्रीलिङ्गः निम्नं गच्छति । डः कृत् आकारान्तः
10 आपगा आपगा स्त्रीलिङ्गः अपां समूह आपम् । डः कृत् आकारान्तः